________________
श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६.१॥
॥ ॐ ॥ पूर्वाध्याये 'निर्मानमोहा' (१५.५ ) इत्यादिना सङ्क्षेपेणोक्तस्य पुमर्थयोर्ज्ञानमोक्षयोः साधनस्य 'यत॑तो॒ऽप्यकृतात्मान' (१५.११) इत्यादिना चोक्तस्य उमर्थविरोधिनश्च देवासुरलक्षणरूपत्वात् तत्प्रपञ्चनमस्मिन्नध्याये क्रियत इति पूर्वसङ्गतिरध्यायभेदश्च ज्ञेयः । विरोध्युक्तिश्च साधनमनुतिष्ठता तत्त्यागोऽवश्यं ॥ अभयमित्यादिश्लोकत्रयेण । अभयं स्वतोऽन्यस्यान्यस्माच्च स्वस्य भयाभावः । 'यस्मान्नोद्विजते लोको लोकान्नोद्विजतेऽच यः' (१२.१५) इत्युक्तेः । सत्त्वसंशुद्धिः चित्तप्रसादः । ज्ञानयोगव्यवस्थितिः ज्ञानोपायनिष्ठता । दानं पात्रे द्रव्यादित्यागः । दम इन्द्रियनिग्रहः । यज्ञो ज्योतिष्टोमादिः । देवयज्ञपितृयज्ञादिर्वा । स्वाध्यायो वेदाध्ययनम् । तपो ब्रह्मचर्यादि । आर्जवं मनोवाक्कर्मस्वैकरूप्यम् ॥१६.१॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्वीरचापलम् ॥१६.२॥
अहिंसा परप्राणावियोजनम् । सत्यं यथार्थवचनम् । अक्रोधः परपीडाकरचित्तविकाराभावः । त्याग औदार्यम् । शांतिः भगवन्निष्ठता । अपैशुनं परोपद्रवनिमित्तदोषाणां राजादेरकीर्तनम् । भूतेषु प्राणिषु दया परहितकरश्चित्तगतो धर्मविशेषः । परदुःखासहिष्णुत्वं वा । अलोलुप्तं विषयेषु रागाभावः । आत्महिंसकेष्वप्यविरोधो मार्दवं अक्रौर्यं वा । ह्वीरकार्यकरणे लज्जा । अचापलं स्थैर्यम् ॥१६.२॥
तेजः -: क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६.३॥
१